Answers

2016-01-10T14:11:34+05:30
१८९१ तमसंवत्सरे लुशायी प्रदेशनाम्ना आङ्ग्ल-प्रशासने आसीत् अयं प्रदेशः । १८९८ तमे संवत्सरे लुशायीपरिसरस्य मण्डलत्वेन स्थापना जाता । १९७२ तमसंवत्सरपर्यन्तं प्रदेशोऽयं अस्सामराज्यस्य मण्डलत्वेन समाविष्टः आसीत् । १९७२ तमे संवत्सरे मिजोरामपरिसरः केन्द्रशासितप्रदेशे समावेशितः । अन्ततः १९८७ तमे संवत्सरे भारतदेशस्य २३ तमगणराज्यत्वेन 'मिजोराम' नाम्ना अस्य प्रदेशस्य उद्घोषणा कृता सर्वकारेण । १९ शताब्दे आङ्ग्ल-शासकानाम् आधिपत्यम् आसीत् । अतः अत्र क्रिस्तधर्मस्य अधिकप्रभावः दृश्यते । मिजोभाषायाः स्वतन्त्रलिपिः नासीत् । आङ्ग्लाधिपत्य-प्रभावात् रोमन-लिपिः स्वीकृता तैः 
0
please mark as brainlist
this is too short
i want in detail